|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.128. अध्यायः 128
Mahabharata - Shanti Parva - Chapter Topics
कृशेन मुनिना वीरद्युम्ननृपंप्रति दुर्लभवस्तुनः कृशतराशायाश्च प्रतिपादनम्॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
राजोवचा। 12-128-0x(5695)(69845)
वीरद्युम्न इति ख्यातो राजाऽहं दिक्षु विश्रुतः।
भूरिद्युम्नं सुतं नष्टमन्वेष्टुं वनमागतः॥ 12-128-1(69846)
एकः पुत्रः स विप्राग्र्य बाल एव च सोऽनघः।
न दृश्यते वने चास्मिंस्तमन्वेष्टुं चराम्यहम्॥ 12-128-2(69847)
ऋषभ उवाच। 12-128-3x(5696)
इत्युक्ते तेन वचने राज्ञा मुनिरधोमुखः।
तूष्णीमेवाभवत्तत्र न च प्रत्युक्तवान्नृपम्॥ 12-128-3(69848)
स हि तेन पुरा विप्रो राज्ञा नात्यर्थमानितः।
आशाकृतश्च राजेन्द्र तपो दीर्घं समाश्रितः॥ 12-128-4(69849)
प्रतिग्रहमहं राज्ञां न करिष्ये कथंचन।
अन्येषां चैव वर्णानामिति कृत्वा धियं तदा॥ 12-128-5(69850)
आशा हि पुरुषं बालमालापयति तस्थूषी।
तामहं व्यपनेष्यामि इति कृत्वा व्यवस्थितः।
[वीरद्युम्नस्तु तं भूयः पप्रच्छ मुनिसत्तमम्॥] 12-128-6(69851)
राजोवाच। 12-128-7x(5697)
आशायाः किंच वृत्तं वै किंचेह भुवि दुर्लभम्।
ब्रवीतु भगवानेतत्त्वं हि धर्मार्थदर्शिवान्॥ 12-128-7(69852)
ऋषभ उवाच। 12-128-8x(5698)
ततः संस्मृत्य तत्सर्वं स्मारयिष्यन्निवाब्रवीत्।
राजानं भगवान्विप्रस्ततः कृशतनुस्तदा॥ 12-128-8(69853)
ऋषिरुवाच। 12-128-9x(5699)
कृशत्वेन समं राजन्नाशाया विद्यते नृप।
तस्या वै दुर्लभत्वाच्च प्रार्थितः पार्थिवो मया॥ 12-128-9(69854)
राजोवाच। 12-128-10x(5700)
कृशाकृशे मया ब्रह्मन्गृहीते वचनात्तव।
दुर्लभत्वं च तस्यैव वेदवाक्यमिवाद्विजे॥ 12-128-10(69855)
संशयस्तु महाप्राज्ञ संजातो हृदये मम।
तन्मुने मम तत्त्वेन वक्तुमर्हसि पृच्छतः॥ 12-128-11(69856)
त्वत्तः कृशतरं किंनु ब्रवीतु भगवानिदम्।
यदि गुह्यं न ते विप्र लोके किंचेह दुर्लभम्॥ 12-128-12(69857)
कृश उवाच। 12-128-13x(5701)
दुर्लभोऽप्यथवा नास्ति योऽर्थी धृतिमवाप्नुयात्।
स दुर्लभतरस्तात योऽर्थिनं नावमन्यते॥ 12-128-13(69858)
सत्कृत्य नोपक्रियते परं शक्त्या यथार्थतः।
या सक्ता सर्वभूतेषु साऽऽशा कृशतरी मया॥ 12-128-14(69859)
कृतघ्नेषु च या सक्ता नृशंसेष्वलसेषु च।
अपकारिषु चासक्ता साऽऽशा कृशतरी मया॥ 12-128-15(69860)
एकपुत्रः पिता पुत्रे नष्टे वा प्रोषितेऽपि वा।
प्रवृत्तिं यो न जानाति साऽऽशा कृशतरी मता॥ 12-128-16(69861)
प्रसवे चैव नारीणां वृद्धानां पुत्रकारिता।
तथा नरेन्द्र धनिनां साऽशा कृशतरी मता॥ 12-128-17(69862)
प्रदानकाङ्क्षिणीनां च कन्यानां वयसि स्थिते।
श्रुत्वा कथास्तथायुक्ताः साऽऽशा कृशतरी मता॥ 12-128-18(69863)
एतच्छ्रुत्वा ततो राजन्स राजा सावरोधनः।
संस्पृश्य पादौ शिरसा निपपात द्विजर्षभे॥ 12-128-19(69864)
राजोवाच। 12-128-20x(5702)
प्रसादये त्वां भगवन्पुत्रेणेच्छामि संगमम्।
यदेतदुक्तं भवता संप्रति द्विजसत्तम।
वृणीष्व च वरान्विप्र यानिच्छसि यथाविधि।
अब्रवीच्चैव तद्वाक्यं राजा राजीवलोचनः॥ 12-128-20(69865)
सत्यमेतत्त्वया विप्र यथोक्तं नान्यथा मृषा॥ 12-128-21(69866)
ततः प्रहस्य भगवांस्तनुर्धर्मभृतां वरः।
पुत्रमस्यानयत्क्षिप्रं तपसा च श्रुतेन च॥ 12-128-22(69867)
स समानीय तत्पुत्रं तमुपालभ्य पार्थिवम्।
आत्मानं दर्शयामास धर्मं धर्मभृतांवरः॥ 12-128-23(69868)
स दर्शयित्वा चात्मानं दिव्यमद्भुतदर्शनम्।
विपाप्मा विगतक्रोधश्चचार वनमन्तिकात्॥ 12-128-24(69869)
एतदॄष्टं मया राजंस्त्वत्तश्च वचनं श्रुतम्।
आशामपनय त्वाशु ततः कृषतरीमिमाम्॥ 12-128-25(69870)
भीष्म उवाच। 12-128-26x(5703)
स तथोक्तस्तदा राजन्नृषभेण महात्मना।
सुमित्रोऽपानयत्क्षिप्रमाशां कृशतरीं ततः॥ 12-128-26(69871)
एवं त्वमपि कौन्तेय श्रुत्वा वाणीमिमां मम।
स्थिरो भव महाराज हिमवानिव निश्चलः॥ 12-128-27(69872)
त्वं हि श्रुत्वा च पृष्ट्वा च कृच्छ्रेष्वर्थेषु तेष्विह।
श्रुत्वा मम महाराज न संतप्तुमिहार्हसि॥ ॥ 12-128-28(69873)
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि अष्टाविंशत्यधिकशततमोऽध्यायः॥ 128॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-128-4 आशया कृतः हतः। कृ हिंसायामित्यस्य रूपम्॥ 12-128-9 आशायाः आशावतः समं अन्यत् कृशत्वेन समं किमपि नास्ति तस्याः तद्गृहीतार्थस्य॥ 12-128-10 कृशाकृशे य आशाजितः स कृशः। येनाशा जिता स पुष्ट इत्यर्थः। तस्यैव आशाविषयस्यैव॥ 12-128-14 आदरेणाशां प्रदर्श्य योऽर्थिनं नोपकुरुते तत्र या आशा सा अतिकृशा। मया मत्तः। दीनत्वसंपादकत्व॥ 12-128-18 तथायुक्ताः प्रदानं स्थितमिति शब्दयुक्ताः॥ 12-128-23 उपालभ्य तत्रापराधं स्थापयित्वा॥ 12-128-28 मम मत्तः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|